भज गोविन्दं

 भज गोविन्दं, गोविन्दं भज मढूमते|
संप्राप्तेसंनिहितेकाले नहि नहि रक्षति डुकृंकरणे||

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥

प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥

गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
नामस्मरणादन्यमुपायं नहि पश्यामो भवाब्धितरणे ॥ 

Comments